Album: Panchmukhi Hanuman Kavach By Suresh Wadkar
Singer: Suresh Wadkar
Music: Subhash Jena
Lyrics: Traditional
Label: Music Nova
Released: 2021-01-01
Duration: 07:54
Downloads: 231120
(ॐ हं हनुमते नमः) श्री गणेशाय नमः पञ्चमुखी
हनुमान कवच सर्वप्रकार के अनिष्ट दूर करने वाला है
इसके नियमित पाठ से सभी प्रकार के रोग और
कष्ट दूर होते हैं पञ्चमुखी श्री हनुमान जी का
चित्र यदि घर के प्रवेश-द्वार पर लगाया जाए तो
बड़ा ही मंगल कार्य होता है और श्री हनुमान
जी की कृपा प्राप्त हो जाती है भक्त जनों,
आईए, पञ्चमुखी श्री हनुमान जी कवच का पाठ करते
हैं श्री गरुड उवाच अथ ध्यानं प्रवक्ष्यामि
शृणु सर्वांगसुंदर यत्कृतं देवदेवेन ध्यानं हनुमत: प्रियम् पञ्चवक्त्रं
महाभीमं त्रिपञ्चनयनैर्युतम् बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् पूर्वं तु वानरं वक्त्रं
कोटिसूर्यसमप्रभम् दंष्ट्राकरालवदनं भ्रुकुटिकुटिलेक्षणम् अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्
सर्वनागप्रशमनं विषभूतादिकृन्तनम् उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्
पातालसिंहवेतालज्वररोगादिकृन्तनम् ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् येन वक्त्रेण
विप्रेन्द्र तारकाख्यं महासुरम् जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ध्यात्वा
पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् खड़्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम्
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम्
एतान्यायुधजालानि धारयन्तं भजाम्यहम् प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशाङ्कशिखरं कपिराजवर्यम्
पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्
शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॐ हरिमर्कट मर्कट
मन्त्रमिदं परिलिख्यति लिख्यति वामतले यदि नश्यति नश्यति शत्रुकुलं यदि
मुञ्चति मुञ्चति वामलता इदं कवचं पठित्वा तु महाकवचं
पठेन्नरः एकवारं जपेत् स्तोत्रम् सर्वशत्रुनिवारणम् द्विवारं तु पठेन्नित्यं
पुत्रपौत्रप्रवर्धनम् त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् चतुर्वारं पठेन्नित्यं
सर्वरोगनिवारणम् पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम्
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् नववारं पठेन्नित्यं राजभोगमवाप्नुयात्
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्धृवम् निर्बलो
रोगयुक्तश्च महाव्याध्यादिपीडितः कवचस्मरणेनैव महाबलमवाप्नुयात् इति सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्री
पञ्चमुखहनुमत्कवचम् संपूर्णम् ॐ श्री हनुमतये नमः