DJJohal.Com

Shree Ramraksha Stotra by Anuradha Paudwal
download Anuradha Paudwal  Shree Ramraksha Stotra mp3 Single Tracks song

Album: Shree Ramraksha Stotra

Singer: Anuradha Paudwal

Music: Arun Paudwal

Label: T-Series

Released: 2014-03-27

Duration: 17:32

Downloads: 2633311

Get This Song Get This Song
song Download in 128 kbps song Download in 320 kbps
Share On

Shree Ramraksha Stotra Song Lyrics

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषि: श्रीसीतारामचंद्रोदेवता अनुष्टुप् छन्द: सीता शक्ति:
श्रीमद्हनुमान् कीलकम् श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ अथ ध्यानम् ध्यायेदाजानुबाहुं
धृतशरधनुषं बद्दद्पद्मासनस्थं पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥ इति ध्यानम् चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् जानकीलक्ष्मणॊपेतं
जटामुकुटमण्डितम् ॥२॥ सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्
॥३॥ रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम् । शिरो मे राघव:
पातु भालं दशरथात्मज: ॥४॥ कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती
। घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥ जिव्हां विद्दानिधि:
पातु कण्ठं भरतवंदित: । स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक:
॥६॥ करौ सीतापति: पातु हृदयं जामदग्न्यजित् । मध्यं पातु
खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥ सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु:
। ऊरू रघुत्तम: पातु रक्ष: कुलविनाशकृत् ॥८॥ जानुनी सेतुकृत्पातु
जङ्घे दशमुखान्तक: । पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥
एतां रामबलोपेतां रक्षां य: सुकृती पठॆत् । स चिरायु:
सुखी पुत्री विजयी विनयी भवेत् ॥१०॥ पातालभूतलव्योम चारिणश्छद्मचारिण: ।
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥ रामेति रामभद्रेति रामचंद्रेति
वा स्मरन् । नरो न लिप्यते पापै भुक्तिं मुक्तिं
च विन्दति ॥१२॥ जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । य: कण्ठे धारयेत्तस्य
करस्था: सर्वसिद्द्दय: ॥१३॥ वज्रपंजरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञ:
सर्वत्र लभते जयमंगलम् ॥१४॥ आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर:
। तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥ आराम: कल्पवृक्षाणां
विराम: सकलापदाम् । अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु:
॥१६॥ तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ
॥१८॥ शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्ष: कुलनिहन्तारौ त्रायेतां
नो रघुत्तमौ ॥१९॥ आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङिगनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम् ॥२०॥ संनद्ध:
कवची खड्गी चापबाणधरो युवा । गच्छन्मनोरथोSस्माकं राम: पातु सलक्ष्मण:
॥२१॥ रामो दाशरथि: शूरो लक्ष्मणानुचरो बली । काकुत्स्थ: पुरुष:
पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥ वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: । जानकीवल्लभ:
श्रीमानप्रमेय पराक्रम: ॥२३॥ इत्येतानि जपेन्नित्यं मद्भक्त: श्रद्धयान्वित: । अश्वमेधाधिकं
पुण्यं संप्राप्नोति न संशय: ॥२४॥ रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्
। स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥ रामं लक्ष्मण
पूर्वजं रघुवरं सीतापतिं सुंदरम् । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं
धार्मिकम् । राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम् । वन्दे
लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥ रामाय रामभद्राय रामचंद्राय वेधसे
। रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥ श्रीराम राम
रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम
। श्रीराम राम रणकर्कश राम राम । श्रीराम राम
शरणं भव राम राम ॥२८॥ श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि । श्रीरामचन्द्रचरणौ शिरसा नमामि । श्रीरामचन्द्रचरणौ
शरणं प्रपद्ये ॥२९॥ माता रामो मत्पिता रामचंन्द्र: । स्वामी
रामो मत्सखा रामचंद्र: । सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥३०॥ दक्षिणे लक्ष्मणो
यस्य वामे च जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे
रघुनंदनम् ॥३१॥ लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरंतं
श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्
। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥ कूजन्तं रामरामेति
मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥ आपदामपहर्तारं
दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥
भर्जनं भवबीजानामर्जनं सुखसंपदाम् । तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥
रामो राजमणि: सदा विजयते रामं रमेशं भजे । रामेणाभिहता
निशाचरचमू रामाय तस्मै नम: । रामान्नास्ति परायणं परतरं रामस्य
दासोSस्म्यहम् । रामे चित्तलय: सदा भवतु मे भो राम
मामुद्धर ॥३७॥ राम रामेति रामेति रमे रामे मनो रमे।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्

Related Songs

» Namo Namo (Amit Trivedi) » Hanuman Chalisa (Anup Jalota) » Achyutam Keshavam Krishna Damodaram (Pratiksha Vashishtha) » Aarti Laxmi Ji Ki (Somalika Das) » Shiv Tandav (Ananya Basu) » Hare Krishna Hare (Palak Muchhal) » Bajrang BaanLofi (Rasraj Ji Maharaj) » Hanuman Chalisa (Sachet Tandon) » Ram Siya Ram (Sachet Tandon) » Lagan Tumse Laga Baithe (Kavita Raam)