Album: Shri Panchmukhi Hanumat Kavacham
Singer: Hariom Sharan
Music: Nandu Honap
Lyrics: Traditional
Label: T-Series
Released:
Duration: 13:54
Downloads: 263082
अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरि । यत्कृतं देवदेवेन ध्यानं हनुमतः
प्रियम् ॥1॥ पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥2॥
पूर्वंतु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥3॥ अस्यैव
दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥4॥
पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्॥ सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥5॥ उत्तरं
सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥6॥ ऊर्ध्वं
हयाननं घोरं दानवांतकरं परम । येन वक्त्रेण विप्रेंद्र तारकाख्यं
महासुरम् ॥7॥ जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पंचमुखं
रुद्रं हनुमन्तं दयानिधिम् ॥8॥ खंग त्रिशूलं खट्वांगं पाशमंकुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥9॥ भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम्
। एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥1